अजेर् धातोः वी इत्ययम् आदेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवयणीयः। प्रवायकः।
अघञपोः इति किम्? समाजः। उदाजः। अपि तु समजः। उदजः। समुदोरजः पशुषु
३।३।६९ इत्यप्।
दीर्घोच्चारणम् किम्? प्रवीताः। भञपोः प्रतिषेधे क्यप उपसङ्ख्यानम् कर्तव्यम्। समज्या। वलादावार्धधातुके विकल्प इष्यते। प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्।
"प्रवायकः" इति। ण्वल्। "प्रवयणीयम्" इति। अनीयर्। "कृत्यचः"
८।४।२८ इति णत्वम्।
"घञपोः प्रतिषेधे क्यप उपसंख्यानं कत्र्तव्यम्" इति। घञपोः कत्र्तव्ये क्यपः प्रतिषेधस्योपसंख्यानं प्रतिपादनं कत्र्तव्यमित्यर्थः। क्यपः प्रतिषेधनिमित्तत्वेन प्रतिषेधं प्रति सम्बन्धित्वेन विवक्षितत्वात् क्यप इति षष्ठी। तत्रेदं प्रतिपादनम्-- "संज्ञायां समजनिपतमनविद"
३।३।९९ इत्यादिना संज्ञायां गम्यमानायामजेः क्यप् विधास्यते। नियतवर्णानुपूर्वीका च संज्ञा भवति, न चादेशे कृते संज्ञा गम्यते, तस्मात् संज्ञायां विधानात् क्यपि वीभावो न भवति। "वलादावद्र्धधातुके विकल्प इष्यते" इति।
कथं पुनरिष्यमाणोऽपि लभ्यते? अजेरुदात्तत्वात्, स हीडर्थो धातुषूदात्तः पठ()ते। यदि चास्य नित्यं वीभावः स्यात्, तदा तस्योदात्तपाठोऽनर्थकः स्यात्। न हि वीभावे विहित इट् प्राप्नोति;तस्यानुदात्तत्वात्।
अजेव्र्य। वी- इति च्छेदः। तेन संवीतः संवीतिरित्यादि सिध्यति। आद्र्धधातुकविषय इति। तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाऽभावाद्यह् न स्यादिति भावः। यङ्लुक् त्वस्मान्न भवति, लुका यङोऽपहारे आद्र्धदातुकविषयत्वाऽभावान्नाद्र्धधातुकाभिव्यक्तिरित वीभावस्यैवाऽप्रसक्तेः। एतच्च "न लुमते"ति सूत्रे कैयटे स्पष्टम्। अघञपोः किम्?। समाजः। "समुदोरजः पशुषु" इत्यप्। समजः। उदजः। विव्यतुरिति। "एरनेकाचःर" इति यण्। लोपाजादेश एवेति। एतच्च " न पदान्ते" ति सूत्रएवास्माभिरुपपादितम्। एकाच इतीति। अजेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, ऊदृ()दन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यभ्युपगमात्।